कुलदेवता ध्यानमंत्र

श्री गणेश –

एकदंतं शूर्पकर्णं गजवक्त्रं चतुर्भुजं । पाशांकुशधरदेवं ध्यायेत् सिद्धिविनायकम् ॥  ॥श्री सिद्धिविनायकाय नम: ॥

श्री तुळजाभवानी –

वरदां पुत्रदां श्यामां द्रव्यदां दिव्यभोगदाम् ।

अन्नपूर्णां चिरंजीवीं ध्यायामि तुरजां हृदी॥   ॥ श्री तुळजाभवान्यै नम:॥

श्री महालक्ष्मी –

अक्षस्रक्परशु गदेषुकुलिशं पद्मं धनु: कुंडिकां, दंडं शक्तिमसिं च चर्म जलजं घटां सुराभाजनम्।

शुलं पाशसुदर्शने च दधतीं हस्तै: प्रवालप्रभां सेवे सैरिभमर्दिनीमह महालक्षीं सरोज:स्थिताम्॥     ॥ श्री महालक्ष्मै नम:।।

श्री शाकंभरी –

शुलं खड्गं च डमरुं दधाना भयप्रभाम्।

सिंहासनस्थां ध्यायामि देवीं शाकंभरी हृदी॥   ॥ श्री शाकंभर्यै नम:॥

श्री दुर्गा –

विद्युद्दामसमप्रभां मृगपति: स्कंधस्थितां भीषणां । कन्याभि: करवालखेट विलसद्धस्ताभिरासेविताम् ॥
हस्तैश्चक्र धरा लिखेटविशिखां श्चापं गुणं तर्जनीं । बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॥

॥श्री दुर्गायै नम:॥

श्री रेणुका –

वरदां राम जननीं जमदग्निप्रियां सतीम् ।
एकवीरां महामायां ध्यायामि रेणुकां भजे ॥॥ श्री रेणुकादेव्यै नम: ॥

श्री एकवीरा –

बद्धमयूरपिच्छानिकरां श्यामां प्रवालां बराम् । गुंजाहारधरां धनु: शरकरां नीलांबराडंबराम् ॥
शृंगीवाहनतत्परां सुवदनां मूर्धालकैर्बर्बराम् । भिल्लीवेषधरां नमामि शबरीं त्वाम् एकवीरां पराम् ॥॥श्री एकवीरा देव्यै नम: ॥

श्री योगेश्वरी-

अंबाजोगाई – देवीं भक्तजनप्रियां सुवदनां खड्गं च पात्रं तथा । स्वर्णालंकृत लांगलं च मुसलं हस्ते दधानां श्रियम् ॥
विद्युत्कोटिरवींदुकांतिममलां दंतासुरोन्मूलिनीं । ब्रह्मेंद्राद्यभिवंदितां च वरदां योगेश्वरी तां भजे ॥॥श्री योगेश्वर्यै नम: ॥

श्री विंध्यवासिनी –

सौवर्णांबुजमध्यमां त्रिनयनां सौदामिनीं संनिभाम् । शंखचक्रगदावराभिदधती मिंदो: कलां बिभ्रतीं ।।
ग्रैवेयांगदहार कुंडलधरां आखंडलाद्यै: स्तुतां । ध्यायेद् विंध्यवासिनी शशिमुखी पार्श्वस्थपंचाननाम् ॥
॥श्री विंध्यवासिंन्यै नम: ॥

श्री नृसिंह –

वज्रनखं तीक्ष्णदंष्ट्रं प्रल्हादवरदं वरम् ।
वज्रदेहं महाजिह्नं नारसिंहं नमाम्यहम् ॥
॥श्री लक्ष्मी नृसिंहाय नम: ॥॥ श्री सद्गुरू पादुकाभ्यां नम:॥

श्री दत्तगुरू –

ब्रह्मानंदं परमसुखदं केवलं ज्ञानमूर्तीं । द्वंव्दातीतं गगनसदृशं तत्वमस्यादिलक्ष्यं ॥
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं । भावातीतं त्रिगुण रहितं सद्गुरं तं नमामि ॥॥श्री गुरूदत्तात्रेयाय नम: ॥

श्री गोपालकृष्ण –

कृष्णाय वासुदेवाय हरये परमात्मने ।
प्रणत: क्लेशनाशाय गोविंदाय नमो नम: ॥॥श्री राधाकृष्णाय नम: ॥

श्री व्यंकटेश –

श्रीवत्सं मणिकौस्तुभं च मुकुटं केयूरमुद्रांकितम् । बिभ्राणं वरदं चतुर्भुजधरं पीतांबरेद्भासितम् ॥
मेघश्यामतनुं प्रसन्नवदनं फ़ुल्लारविंदेक्षणम् । ध्यायेद् व्यंकटनायकं हरिरमाधीशं सुरैर्वंदितम् ॥॥ श्री लक्ष्मी व्यंकटेशाय नम: ॥

श्री हनुमान –

मनोजवं मारुततुल्यवेगं जितेंद्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥॥ श्री हनुमन्तायै नम: ॥
॥ श्री हनुमते नम: ॥

श्री विठ्ठल –

महायोगपीठं तटे भिमरथ्या: वरं पुंडलिकाय दातुं मुनीदै: ।
समागत्य तिष्ठंत मानदकंद परब्रह्मलिगं भजे पांडुरंगं ॥॥ श्री रुक्मिणी पांडुरंगाय नम: ॥